|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.59. अध्यायः 059
Mahabharata - Sabha Parva - Chapter Topics
कृष्णेनाहृतविभूतिविलोकनाय देवकीरुक्मिण्यादिस्त्रीणामागमनम्॥1॥ सभामागतायाः यशोदासुतायाः रामकृष्णाभ्यां सत्कारः॥ 2॥ सर्वेषां स्वस्वभवनगमनम्॥ 3॥
Mahabharata - Sabha Parva - Chapter Text
भीष्म उवाच॥
ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः।
नन्दगोपस्य महिषी यशोदा लोकविश्रुता॥ 2-59-1(13685)
रेवती च महाभागा रुक्मिणी च पत्रिव्रता।
सत्या जाम्बवती चोभे गान्धारी शिंशुमापि च॥ 2-59-2(13686)
विशोका लक्षणा चापि सुमित्रा केतुमा तथा।
वासुदेवमहिष्योऽन्याः श्रिया सार्धं ययुस्तदा॥ 2-59-3(13687)
विभूतिं द्रष्टुमनसः केशवस्य महात्मनः।
प्रीयमाणाः सभां जग्मुरालोकयितुमच्युतम्॥ 2-59-4(13688)
देवकी सर्वदेवीनां रोहिणी च पुरस्कृता।
ददृशुर्देवमासीनं कृष्णं हलभृता सह॥ 2-59-5(13689)
तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च।
अभ्यवादयतां देवौ देवकीं रामकेशवौ॥ 2-59-6(13690)
सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽधिकम्।
देवकी देवमातेव मित्रेण वरुणेन च॥ 2-59-7(13691)
ततः प्राप्ता यशोदाया दुहिता वै क्षणेन हि।
जाज्वल्यमाना वपुषा प्रभयाऽतीव भारत॥ 2-59-8(13692)
एकानङ्गेति यामाहुः कन्यां वै कामरूपिणीम्।
यत्कृते सगणं कंसं जघान पुरुषोत्तमः॥ 2-59-9(13693)
ततः स भगवान्रामस्तामुपाक्रम्य भामिनाम्।
मूर्ध्न्युपाघ्राय सव्येन परिजग्राह पाणिना॥ 2-59-10(13694)
तां च तत्रोपसम्प्राप्य प्रियामिव सखीमिमाम्।
दक्षिणेन कराग्रेण पिरजग्राह माधवः॥ 2-59-11(13695)
ददृशुस्तां सभामध्ये भगिनीं रामकृष्णयोः।
रुक्मपद्मशां पद्मश्रीमिवोत्तमनाभयोः॥ 2-59-12(13696)
अथाक्षतमहावष्ट्या लाजपुष्पघृतैरपि।
वृष्णयोऽवाकिरन्प्रीताः सङ्कर्षणजनार्दनौ॥ 2-59-13(13697)
सबालाः सहवृद्धाश्च ये ज्ञातिकुलबान्धवाः।
उपोपविविशुः प्रीता वृष्णयो मधुसूदनम्॥ 2-59-14(13698)
पूज्यमानो महाबाहुः पौराणां रतिवर्धनः।
विवेश पुरुषव्याघ्रः स्ववेश्म मधुसूदनः॥ 2-59-15(13699)
रुक्मिण्या सहितो देव्या प्रमुमोद सुखी सुखम्।
अनन्तरं च सत्याया जाम्बवत्याश्च भारत॥ 2-59-16(13700)
सर्वासां च यदुश्रेष्ठो गेहे गेहे विहारवान्।
जगाम च हृषीकेशो रुक्मिण्याः सदनं पुनः॥ 2-59-17(13701)
एष तात महाबाहो विजयः शार्ङ्गधन्वनः।
एतदर्थं च जन्माहुर्मानुषेषु महात्मनः॥ ॥ 2-59-18(13702)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकोनषष्टितमोऽध्यायः॥ 59 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|